|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.32. अध्यायः 032
Mahabharata - Karna Parva - Chapter Topics
कर्णेन स्वस्यार्जुनप्रदर्शकाय तदभिमतपारितोषिकप्रदानप्रतिज्ञानम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-32-0x(4920)(56425)
प्रयत्नेन तदा कर्णो हर्षयन्वाहिनीं तव।
एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत॥ 8-32-1(56426)
यो ममाद्य महात्मानं दर्शयेच्छ्वेतवाहनम्।
तस्मै दद्यामभिप्रेतं धनं यन्मनसेच्छति॥ 8-32-2(56427)
न चेत्तदभिमन्येत तस्मै दद्यामहं पुनः।
शकटं रत्नसम्पूर्णं यो मे ब्रूयाद्वनञ्जयम्॥ 8-32-3(56428)
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्।
शतं दद्यां गवां तस्मै नैत्यकं कांस्यदोहनम्॥ 8-32-4(56429)
शतं ग्रामवरांश्चैव दद्यामर्जुनदर्शिने।
तथा तस्मै पुनर्दद्यां श्वेतमश्वतरीरथम्।
युक्तमञ्जनकेशीभिर्यो मे ब्रूयाद्वनञ्जयम्॥ 8-32-5(56430)
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्।
अन्यं वाऽस्मै पुनर्दद्यां सौवर्णं हस्तिषङ्गवम्॥ 8-32-6(56431)
तथाप्यस्मै पुनर्दद्यां स्त्रीणां शतमलङ्कृतम्।
श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम्॥ 8-32-7(56432)
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्।
तस्मै दद्यां शतं नागाञ्शतं ग्रामाञ्शतं रथान्॥ 8-32-8(56433)
सुवर्णस्य च मुख्यस्य हयाग्र्याणां शतं शतान्।
ऋद्व्या गुणैः सुदान्तांश्च धुर्यवाहान्सुशिक्षितान्॥ 8-32-9(56434)
तथा सुवर्णशृङ्गीणां गोधेनूनां चतुःशतम्।
दद्यां तस्मै सवत्सानां यो मे ब्रूयाद्वनञ्जयम्॥ 8-32-10(56435)
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्।
अन्यदस्मै वरं दद्यां श्वेतान्पञ्चशतान्हयान्॥ 8-32-11(56436)
हेमभाण्डपरिच्छन्नान्सुमृष्टमणिभूषणान्।
सुदान्तानपि चैवाहं दद्यामष्टादशापरान्॥ 8-32-12(56437)
रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलङ्कृतम्।
युक्तं परमकाम्भोजैर्यो मे ब्रूयाद्वनञ्जयम्॥ 8-32-13(56438)
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्।
अन्यदस्मै वरं दद्यां कुञ्जराणां शतानि षट्॥ 8-32-14(56439)
काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः।
उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः॥ 8-32-15(56440)
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्।
अन्यदस्मै वरं दद्यां वैश्यग्रामांश्चतुर्दश॥ 8-32-16(56441)
सुस्फीतान्धनसंयुक्तान्प्रत्यासन्नवनोदकान्।
अकुतोभयान्सुसम्पन्नान्राजभोज्यांश्चतुर्दश॥ 8-32-17(56442)
दासीनां निष्ककण्ठीनां मागधीनां शतं तथा।
प्रत्यग्रवयसां दद्यां यो मे ब्रूयाद्धनञ्जयम्॥ 8-32-18(56443)
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्।
अन्यं तस्मै वरं दद्यां यमसौ कामयेत्स्वयम्॥ 8-32-19(56444)
पुत्रदारान्विहायैव यदन्यद्वित्तमस्ति मे।
तच्च तस्मै पुनर्दद्यां यद्यच्च मनसेच्छति॥ 8-32-20(56445)
हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः।
तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ॥ 8-32-21(56446)
सञ्जय उवाच। 8-32-22x(4921)
एता वाचः सुबहुशः कर्ण उच्चारयन्युधि।
दध्मौ सागरसम्भूतं सुस्वरं शङ्खमुत्तमम्॥ 8-32-22(56447)
ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु।
दुर्योधनो महाराज संहृष्टः सानुजोऽभवत्॥ 8-32-23(56448)
ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशा।
सिंहनादः सवादित्रः कुञ्चराणां च निःस्वनः॥ 8-32-24(56449)
प्रादुरासीत्तदा राजंस्त्वत्सैन्ये पुरुषर्षभ।
योधानां सम्प्रहृष्टानां तथा समभवत्स्वनः॥ 8-32-25(56450)
तथा प्रहृष्टे सैन्ये तं प्लुवमानं महारथम्।
विकत्थमानं च तदा राधेयमरिकर्शनम्।
मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत॥ ॥ 8-32-26(56451)
इति श्रीमन्महाभारते कर्णपर्वणि द्वात्रिंशोऽध्यायः॥ 32 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-32-3 अभिमन्येत अल्पमित्यवजानीत॥ 8-32-5 अञ्जनकेशीभिः कृष्णकेशीभिरश्वतरीभिर्युवतीभिर्वा युक्तम्॥ 8-32-6 हस्तिषङ्गवं हस्तिषट्कम् षट्रत्वे षङ्गवजित्यनेन षङ्गवच्प्रत्ययः। हस्तिषङ्गवमिच्छन्ति वीराः षट्के च दन्तिनामिति प्राञ्चः। अन्यं वा सौवर्णरथमिति शेषः। हस्तितुल्याः षट् गाव उक्षाणो यस्मिन् तम्। षट्हस्तिन एव गोवत् वोढारो यस्य तादृशम्॥ 8-32-7 श्यामानामप्रजातानाम्। निष्कमुरोभूषणम्॥ 8-32-9 शतंशतान्दशसहस्राणि। ऋद्व्या पुष्ट्या। सुदान्तान् विनीतान्। धुर्यवाहान् रथोद्वहनक्षमान्॥ 8-32-12 भाण्डमाभरणम्॥ 8-32-15 अपरान्तेषु पश्चिमकच्छेषु॥ 8-32-18 प्रत्यग्रवयसामभिनवयौवनानाम्॥ 8-32-26 प्लवमानं प्रयान्तम्॥ 8-32-32 द्वात्रिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|